340 people have read this article

मुदा करात्तमोदकं सदा विमुक्तिसाधकं

कलाधरावतंसकं विलासिलोकरञ्जकम्।

अनायकैकनायकं विनाशितेभदैत्यकं - 

नताशुभाशुनाशकं नमामि तं विनायकम्॥१॥ 

नतेतरातिभीकरं नवोदितार्कभास्वरं 

नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्। 

सुरेश्वरं निधीश्वरंगजेश्वरं गणेश्वरं

महेश्वरं तमाश्रये परात्परं निरन्तरम्॥२॥ 

समस्तलोकशङ्करं__निरस्तदैत्यकुञ्जरं 

दरेतरोदरं वरं वरेभवक्त्रमक्षरम्। 

कृपाकरं क्षमाकरं मुदाकरं यशस्करं

नमस्करं नमस्कृतां नमस्करोमि भास्वरम्॥३॥ 

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं 

पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्। 

प्रपञ्चनाशभीषणं_ धनञ्जयादिभूषणं -

 कपोलदानवारणं भजे पुराणवारणम्॥४॥ 

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज

मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । 

हृदन्तरे निरन्तरं वसन्तमेव योगिनां

तमेकदन्तमेव तं विचिन्तयामि संततम्॥५॥ 

महागणेशपञ्चरत्नमादरेण योऽन्वहं

प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम्। 

अरोगतामदोषतां सुसाहिती सुपुत्रतां

समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात्॥६॥

॥ श्रीमच्छङ्कराचार्यकृतं गणेशपञ्चरत्नस्तोत्रं सम्पूर्णम्॥