(इस स्तोत्रके श्रद्धा-विधिपूर्वक पाठ और अनुष्ठानसे प्राणसंकट, शत्रुसंकट और काम-क्रोधादिका बेगरूप संकट दूर होते हैं। यह देवराज इन्द्रका अनुभूत सिद्ध कवच है।)
श्रीशुक उवाच
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥१॥
विश्वरूप उवाच धौताघ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतवाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥२॥
नारायणमयं वर्म संनह्येद् भय आगते ।
पादयोर्जानुनोरूर्वोरुरे हृद्यथोरसि ॥३॥
मुखे शिरस्यानुपूादोंकारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा॥४॥
करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥५॥
न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि ।
षकारं तु ध्रुवोर्मध्ये णकारं शिखया दिशेत् ॥६॥
वेकार नेत्रयोयुज़्यान्नकारं सर्वसंधिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः ॥ ७॥
सविसर्ग फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ ८॥
आत्मानं परमं ध्यायेद् ध्येयं षटशक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥९॥
ॐ हरिर्विध्यान्मम सर्वरक्षां न्यस्ताघ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचापपाशान्द धानोऽष्टगुणोऽष्टबाहुः ॥ १०॥
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ ११॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुय॑पतंश्च गर्भाः ॥१२॥
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोनीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ॥ १३ ॥
मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ॥ १४॥
सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात् कूमों हरिमा निरयादशेषात् ॥ १५ ॥
धन्वन्तरिभगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताजनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ॥ १६॥
द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात् ।
कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ॥ १७ ॥
मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः ।
नारायणः प्राण उदात्तशक्तिमध्यन्दिने विष्णुररीन्द्रपाणिः ॥ १८॥
देवोऽपराले मधुहोगधन्वा सायं विधामावतु माधवो माम् ।
दोष हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ १९ ॥
श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसंध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ २०॥
चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २१ ॥
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निपिण्ड्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २२ ॥
त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेहृदयानि कम्पयन् ॥ २३॥
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि ।
चभृषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥२४॥
यत्रो भयं ग्रहेभ्योऽभूत् केतुभ्यो नभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽहोभ्य एव वा ॥ २५
मण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयाप्रतीपकाः ॥ २६
गरुडो भगवान् स्तोत्रस्तोमश्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २७
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः।
बुद्धीन्द्रियमन प्राणान् पान्तु पार्षदभूषणाः ॥ २८
यथा हि भगवानेव वस्तुतः सदसञ्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ २९
पथकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्कीः स्वमायया ॥ ३०
तेनैव सत्यमानेन सर्वशो भगवान् हरिः ।
पातु सर्वैः स्वरूपैनः सदा सर्वत्र सर्वगः ॥ ३१ ॥
विदिक्षु दिसूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः।
प्रहापयल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३२॥
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३३॥
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदावा संस्पृशेत् सद्यःसाध्वसात् स विमुच्यते॥ ३४॥
न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३५॥
( श्रीमद्भागवत ६ । ८ । ३-३७)
सम्पूर्ण नारायण कवच विधी