301 people have read this article

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। 

भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥१॥ 

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्। 

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥२॥ 

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च। 

सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्॥३॥ 

नवमं भालचन्द्रं च दशमं तु विनायकम्। 

एकादशं गणपतिं द्वादशं तु गजाननम्॥४॥ 

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः। 

न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्॥५॥ 

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्। 

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्॥६॥ 

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्। 

संवत्सरेण सिद्धिं च लभते नात्र संशयः॥७॥ 

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्। 

तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः॥८॥ ॥ 

श्रीनारदपुराणे सङ्कष्टनाशनं नाम गणेशस्तोत्रं सम्पूर्णम्॥